आर्किमिडीस्
आर्किमिडीस् (ग्रीक्: Ἀρχιμήδης) | |
---|---|
Archimedes Thoughtful by Fetti (1620) | |
जननम् |
क्रैस्तपूर्वः २८७ तमवर्षः सैरकास्, सिसिली |
मरणम् |
क्रैस्तपूर्वः २१२ (प्रायः ७५ वयः आसीत्) सैरकास् |
वासस्थानम् | सैरकास्, सिसिली |
कार्यक्षेत्राणि | गणितशास्त्रम्, भौतशास्त्रम्, ज्योतिषशास्त्रम् |
विषयेषु प्रसिद्धः | आर्किमिडीस् प्रमाणम्, आर्किमिडीस्-वर्तनी, तरलसिद्धान्तः |
आर्किमिडीस् (ग्रीक्भाषा: Ἀρχιμήδης) (क्रि पू २८७-२१२) कश्चन ग्रीक्देशीयः गणितज्ञः, भौतशास्त्रज्ञः, तन्त्रज्ञः, आविष्कर्ता, खगोलविज्ञानी च आसीत् । तस्य विषये ज्ञातम् अत्यल्पमेव चेदपि सः प्राचीनविज्ञानिषु प्रमुखः इति अभिज्ञातः अस्ति । भौतशास्त्रस्य प्रगतौ स्थायिजलशास्त्रम्(hydrostatics), स्थायिशास्त्रम् (statics), संज्ञादण्डस्य नियमाश्च अनेन प्रतिपादिताः । अनेन बहुविधानि यन्त्राणि निर्मितानि । तेषु आर्किमिडीस्-वर्तनी (Archimedes' screw) प्रसिद्धम् । अयं प्रायोगिकविज्ञानस्य जनकः इति कथ्यते । तेन कृतानि संशोधनानि यद्यपि अति प्रसिद्धानि तथापि तेन संशोधनस्य अपेक्षया गणितशास्त्रप्रगतेः कृते एव अधिकम् अवधानं दत्तम् । आर्किमिडीसः अपूर्वः गणितज्ञः ।
आर्किमिडीसः मग्नाग्रेसियाप्रदेशे सिराकुझानगरे सिसिलिद्वीपे क्रि पू २८७ तमे वर्षे जातः । अयं ७५ वर्षाणि अजीवत् । तस्य पिता फिडियास् कश्चन खगोलशास्त्रज्ञः आसीत् इति श्रूयते किन्तु नान्यदधिकं ज्ञायते । तस्य मित्रेण हेराक्लैड्सेन लिखितम् आर्किमिडीसस्य जीवनचरितं नष्टम् इत्यतः तस्य विषये अधिकं न किञ्चित् ज्ञायते । सः किं विवाहितः, पुत्रवान् इत्यपि न ज्ञायते । सः ईजिप्टस्य अलेक्साण्ड्रियायाम् अध्ययनं कृतवान् स्यात् । कोनोन् आफ् समोस् तस्य मित्रमिति उल्लिखितं दृश्यते ।
आर्किमिडीसः क्रि पू २१२ तमे वर्षे द्वितीयपुनिक्-युद्धावसरे मरणं प्राप्तवान् । वर्षद्वयात्मकस्य प्रतिबन्धस्य अनन्तरं तदा रोमन्सेनया सिराकुसानगरं वशीकृतम् आसीत् । प्लुटार्केण दत्तं विवरणम् एवमस्ति - नगरस्य वशीकरणावसरे आर्किमिडीसः कस्याश्चित् गणितीयसमस्यायाः परिहरणे मग्नः आसीत् । रोमन्सैनिकः कश्चन आगत्य आर्किमिडीसम् अवदत् - 'आगत्य जेनेरल् मर्सेलसेन मिलतु' इति । 'न शक्यते । मया इयं समस्या परिहरणीया' इति । क्रुद्धः सैनिकः खड्गेन आर्किमिडीसम् अमारयत् । इमां वार्तां ज्ञातवान् जेनेरल् मर्सेलसः नितरां क्रुद्धः यतः आर्किमिडीसः काचित् वैज्ञानिकसम्पत्तिः सः कथञ्चिदपि मारितः न स्यात् इति तेन पूर्वमेव आदिष्टम् आसीत् ।
तद्विषये लिखितम् अन्तिमवाक्यम् अस्ति - मम वृत्तं मा पीड्यताम् इति । वृत्तगणितसमस्यायाः परिहरणे मग्नं तं रोमन्सैनिकः अबाधयत् इत्यतः एवम् उल्लिखितमस्ति । इयम् उक्तिः लेटिन्भाषया एवमस्ति -"Noli turbare circulos meos" इति । आर्किमिडीसस्य मुखात् इदं वाक्यं श्रुतम् इति कुत्रापि उल्लेखः न लभते ।
संशोधनानि
[सम्पादयतु]आर्किमिडीसस्य सिद्धान्तः
[सम्पादयतु]नितरां प्रसिद्धिं गता आर्किमिडीस्-सम्बद्धा इयं कथा अनियमिताकारस्य वस्तुनः घनफलं कथं ज्ञातव्यम् इत्यस्मिन् विषये तेन कृतं संशोधनं विवृणोति । विट्रुवियसस्य कथनानुसारं - राजा हीरो २ - कस्मैश्चित् देवालयाय सुवर्णकिरीटमेकं कारितवान् आसीत् । तन्निमित्तं शुद्धं सुवर्णमेव उपयोक्तव्यमिति स्वर्णकारः सूचितः आसीत् । किन्तु कापट्येन तेन रजतं तस्मिन् योजितं किम् इति ज्ञातुम् इच्छति स्म राजा । इयं समस्या आर्किमिडीसेन परिहरणीया आसीत् किरीटस्य संस्करणं विना । अन्यथा तत् द्रावयित्वा तस्य नियतरूपं संसाध्य घनत्वं ज्ञातुम् अशक्ष्यत् । स्नानकरणावसरे तेन अवलोकितं यत् द्रोण्यां जलस्य स्तरः अवर्धत यदा तदीयं शरीरम् अन्तः गतम् । झटिति तेन बुद्धं यत् अयं परिणामः किरीटस्य घनफलस्य गणनाय उपयोक्तुं शक्यमिति । प्रायोगिकरूपेण जलं सङ्कोचयितुम् अशक्यम् । अतः मज्जितं किरीटं स्वस्य घनफलं यावत् स्यात् तावदेव जलं निष्कासयेत् । इदं घनफलं परिशुद्धस्वर्णात् निर्मितस्य अपेक्षया न्यूनं स्यात् यदि रजतं योजितम् । इदं संशोधितवान् आर्किमिडीसः अत्यन्तम् उद्विग्नः सन् विवस्त्रः सन् एव युरेका ! इति आक्रोशन् मार्गम् अधावत् । (ग्रीकभाषा: "εὕρηκα!," अर्थात् 'अहं ज्ञातवान्') । इयं परीक्षा अदर्शयत् यत् किरीटे रजतं योजितमस्ति इति । इयं कथा आर्किमिडीसस्य योगदानेषु न दृश्यते । अपि च अत्र उक्ता प्रक्रिया अप्रायोगिकी इति भाति यतः बहिः आगतस्य जलस्य सुष्ठु मापनं कष्टकरम् । स्थायिजलशास्त्रे प्लवमानस्य वस्तुनः विषये प्रसिद्धस्य आर्किमिडीससिद्धान्तस्य साहाय्यात् समस्यायाः परिहारं प्राप्तवान् स्यात् । अयं सिद्धान्तः कथयति यत् द्रवे मज्जितं वस्तु बहिः प्रेषितस्य द्रवस्य भारस्य समप्रमाणकं बलम् अनुभवति इति । सुवर्णघनस्य सुवर्णकिरीटस्य च भारस्य तोलनेन सत्यम् अवगतं स्यात् इति अभिप्रैति गेलिलियो ।
आर्किमिडीस्-वर्तनी
[सम्पादयतु]तान्त्रिकक्षेत्रे आर्किमिडीसेन कृतस्य कार्यस्य महान् भागः स्वस्य मूलनगरस्य सिराकुझस्य आवश्यकतायाः निवारणाय कृतः आसीत् । ग्रीक्लेखकः अथीनस् लिखति यत् राजा हीरो २ महानौकायाः विन्यासनिर्माणाय आर्किमिडीसः सूचितः आसीत् इति । एवं निर्मिता महानौका सिराकुझिया महता कौशलेन निर्मिता आसीत् । अस्यां ६०० जनाः प्रयाणं कर्तुं शक्नुवन्ति स्म । तस्मिन् अफ्रोडिट्-देव्याः मन्दिरमपि आसीत् । उद्यानालङ्काराः व्यायामशाला च अस्याम् आसन् । एतादृश्याः महानौकायाः महतः प्रमाणस्य जलं स्रवति बहिर्द्वारात् इति जानन् सः आर्किमिडीश्-वर्तनीं निर्मितवान् जलविसर्जनाय । वर्तनी किञ्चन उपकरणं यत्र दण्डगोले भ्रममाणं वर्तन्याकारकं क्षुरपत्रं विद्यते । हस्तेन भ्रमितुं योग्यं वर्तते इदम् । अधः विद्यमानं जलम् कृषिनालासु वहनाय अस्य उपयोगः कर्तुं शक्यः । अद्यत्वे अपि अस्य उपयोगः बहुधा क्रियते । १८३९ तमे वर्षे समुद्रनौका कार्यरता या जाता तस्याः नाम आर्किमिडिस् इति दत्तं तस्य गौरवदर्शनाय ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- फलकम्:InPho
- फलकम्:PhilPapers
- The Archimedes Palimpsest project at The Walters Art Museum in Baltimore, Maryland
- The Mathematical Achievements and Methodologies of Archimedes Archived २००४-१२-०९ at the Wayback Machine
- फलकम्:MathPages
- फलकम्:MathPages
- Photograph of the Sakkas experiment in 1973
- Testing the Archimedes steam cannon Archived २०१०-०३-२९ at the Wayback Machine
- Stamps of Archimedes Archived २०१०-१०-१८ at the Wayback Machine
- Eureka! 1,000-year-old text by Greek maths genius Archimedes goes on display Daily Mail, October 18, 2011.