Paribhasha PDF
Paribhasha PDF
.. Vedanta Paribhasha ..
sanskritdocuments.org
August 2, 2016
.. Vedanta Paribhasha ..
॥ वेदान्त परिभाषा ॥
Document Information
August 2, 2016
sanskritdocuments.org
.. Vedanta Paribhasha ..
॥ वेदान्त परिभाषा ॥
by Dharmaraja Adhvarindra
१ प्रत्यक्ष प्रमाणम्।
२ अनुमानम्।
३ उपमानम्।
४ आगमः ।
५ अर्थापत्तिः ।
६ अनुपलब्धि ।
७ प्रामाण्यम्।
८ प्रयोजनम्।
१ प्रत्यक्ष प्रमाणम्।
यदविद्याविलासेन भूतभौतिकसृष्टयः ।
तं नौमि परमात्मानं सच्चिदानन्दविग्रहम्॥ १॥
यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः ।
तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम्॥ २॥
श्रीमद्वेङ्कटनाथाख्यान्वेलाङ्गुडिनिवासिनः ।
जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान्॥ ३॥
येन चिन्तामणौ टीका दशटीकाविभञ्जिनी ।
तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा ॥ ४॥
टीका शशधरस्यापि बालव्युत्पत्तिदायिनी ।
पदयोजनया पञ्चपादिका व्याकृता तथा ॥ ५॥
तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी ।
धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते ॥ ६॥
इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु
मोक्ष एव परमपुरुषार्थः, ᳚न स पुनरावर्तते᳚
इत्यादिश्रुत्या तस्यैव नित्यत्वावगमात्, इतरेषां त्रयाणां प्रत्यक्षेण,
᳚तद्यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्यजितो लोकः क्षीयते᳚
इत्यादिश्रुत्या च अनित्यत्वावगमाच्च । स च ब्रह्माज्ञानादिति
ब्रह्म तज्ज्ञानं तत्प्रमाणञ्च सप्रपञ्चं निरूप्यते ।
तत्र प्रमाकरणं प्रमाणम्। तत्र स्मृतिव्यावृत्तं
प्रमात्वमनधिगतावाधितार्थविषयकज्ञानत्वम्।
paribhasha.pdf 1
॥ वेदान्त परिभाषा ॥
स्मृतिसाधारणन्तु अवाधितार्थविषयकज्ञानत्वम्।
नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन, धारावाहिकबुद्धेरपि
पूर्वपूर्वज्ञानाविषय-तत्तत्क्षणविशेषविषयकत्वेन न
तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न
ज्ञानभेदः, किन्तु यावद्घटस्फुरणं
तावद्घटाकारान्तःकरणवृत्तिरेकैव,
न तु नाना, वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं
स्थायित्वाभ्युपगमात्; तथा च तत्प्रतिफलितचैतन्यरूपं
घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि ।
ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बाधितत्वात्कथं तज्ज्ञानं प्रमाणम्?
उच्यते । ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः, ᳚यत्र
त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्᳚
इति श्रुतेः । न तु संसारदशायां बाधः, ᳚यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति᳚ इति श्रुतेः । तथा च ’अबाधित’ - पदेन
संसारदशायामबाधितत्वं
विवक्षितम्, इति न घटादिप्रमायमव्याप्तिः । तदुक्तम्-
᳚देहात्मप्रत्ययो यद्वत्प्रमाणत्नेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणान्त्वाऽऽत्मनिश्चयात्॥᳚ इति ।
’आ आत्मनिश्चयात्’-ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः।
’लौकिकम्’ इति घटादिज्ञानमित्यर्थः ।
तानि च प्रमाणानि षट्- प्रत्यक्षानुमानौपमानागम-
अर्थापत्तिअनुपलब्धिभेदात्। तत्र प्रत्यक्षप्रमायाः करणं
प्रत्यक्षप्रमाणम्। प्रत्यक्षप्रमा चात्र चैतन्यमेव,
᳚यत् साक्षादपरोक्षाद् ब्रह्म᳚ इति श्रुतेः ।
’अपरोक्षादि’त्यस्य अपरोक्षमित्यर्थः ।
ननु चैतन्यमनादि तत्कथं चक्षुरादेस्तत्करणत्वेन
प्रमाणत्वमिति । उच्यते । चैतन्यस्यानादित्वेऽपि
तदभिव्यञ्जक- अन्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिना
जायते इति वृत्तिविशिष्टं चैतन्यमादिमदित्युच्यते
ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः ।
तदुक्तं विवरणे ᳚अन्तःकरणवृत्तौज्ञानत्वोपचारात्᳚।
ननु निरवयवस्यान्तःकरणस्य परिणामात्मिका वृत्तिः कथम्? इत्थम्।
न तावदन्तःकरणम्निरवयवम्, सादिद्रव्यत्वेन सावयवत्वात्।
सादित्वञ्च ᳚तन्मनोऽसृजत᳚इत्यादिश्रुतेः । वृत्तिरूपज्ञानस्य
मनोधर्मत्वे च ᳚कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्र्भीरित्येतत्
2 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 3
॥ वेदान्त परिभाषा ॥
4 sanskritdocuments.org
.. Vedanta Paribhasha ..
सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात्।
अत एव ᳚पर्वतो वह्निमान्᳚इत्यादिज्ञानमपि बह्वंशे
परोक्षम् पर्वतांशेऽपरोक्षम्पर्वताद्यवच्छिन्नचैतन्यस्य
बहिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्याभेदात्।
वह्न्यंशे तु अन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्न-
चैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात्।
तथाचानुभवः ᳚पर्वतं पश्यामि᳚ ᳚वह्निमनुमिनोमि ᳚
इति । न्यायमते तु ᳚पर्वतमनुमिनोमि ᳚इत्युनुव्यवसायापत्तिः ।
असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं
परोक्षम्। ᳚सुरभि चन्दनम्᳚ इत्यादिज्ञानमपि
चन्दनखण्डांशेऽपरोक्षम्
सौरभांशे च परोक्षम् सौरभस्य
चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात्।
न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे
तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात्।
जातित्वोपाधित्वपरिभाषायाः
सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात्।
᳚घटोऽयम्᳚इत्यादिप्रत्यक्षं हि घटत्वादिसद्भावे
मानम् न तु तस्य जातित्वेपि जातित्वरूपसाध्यप्रसिद्धौ
तत्साधकानुमानस्याप्यनवकाशात्। समवायासिद्धया
ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य
घटत्वादावसिद्धेश्च । एवमेवोपाधित्वं निरसनीयम्।
᳚पर्वतो वह्निमान्᳚ इत्यादौ च पर्वतांशे वह्न्यंशे
चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन
परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चित्विरोधः । तथा
च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्यभिन्नत्वं
तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम्।
घटादेर्विषयस्य प्रत्यक्षत्वन्तु प्रमात्रभिन्नत्वम्।
ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्यभेदः ᳚अहमिदं
पश्यामि᳚ इति भेदानुभवविरोधादिति चेत् उच्यते । प्रमात्रभेदो
नाम न तावदैक्यम् किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा
च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव
घटादिसत्ता अधिष्ठानसत्तातिरिक्तया
आरोपितसत्तायानङ्गीकारात्। विषयचैतन्यं च
पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यैस्यैव
paribhasha.pdf 5
॥ वेदान्त परिभाषा ॥
6 sanskritdocuments.org
.. Vedanta Paribhasha ..
प्रत्यक्षत्वम्।᳚
तत्र संयोग- संयुक्ततादात्म्यादीनां सन्निकार्षाणां
चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः ।
सा च वृत्तिश्चतुर्विधा - संशयो निश्चयो गर्वः स्मरणमिति ।
एवंविधवृत्तिभेदेन एवमप्यन्तःकरणं मन
इति बुद्धिरिति अहङ्कार इति चित्तमिति चाख्यायते । तदुक्तम्-
᳚मनोबुद्धिरहङ्कारश्चित्तं करणमन्तरम्।
संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥᳚
तच्च प्रत्यक्षं द्विविधम् सविकल्पकनिर्विकल्पकभेदात्। तत्र सविकल्पकं
वैशिष्ट्यावगाहि ज्ञानम्। यथा
᳚घटमहं जानामि᳚ इत्यादिज्ञानम्।
निर्विकल्पकन्तु संसर्गानवगाहि ज्ञानम्। यथा
᳚सोऽयं देवदत्तः᳚ ᳚तत्त्वमसि᳚ इत्यादिवाक्यजन्यं ज्ञानम्।
ननु शाब्दमिदं ज्ञानम् न प्रत्यक्षम्
इन्द्रियाजन्यत्वात्
इति चेत् न । नहि इन्द्रियजन्यत्वं
प्रत्यक्षत्वे तन्त्रम् दूषितत्वात् किन्तु योग्यवर्तमानविषयकत्वे
सति प्रमाणचैतन्यस्य विषयचैतन्याभिन्नत्वमित्युक्तम्।
तथाच ᳚सोऽयं देवदत्तः᳚ इति वाक्यजन्यज्ञानस्य
सन्निकृष्टविषयतया बहिर्निःसृतान्तःकरणवृत्त्य- भ्युपगमेन
देवदत्तवच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभिन्नतया
᳚सोऽयं देवदत्तः᳚ इति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वम्।
एवं ᳚तत्त्वमसि᳚इत्यादिवाक्यजन्यज्ञानस्यापि
तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात्।
ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया
कथं निर्विकल्पकत्वम्? उच्यते । वाक्यजन्यज्ञानविषयत्वे
हि न पदार्थसंसर्गत्वं तन्त्रम् अनभिमतसंसर्गस्यापि
वाक्यजन्यज्ञानविषयत्वापत्तेः किन्तु तात्पर्यविषयत्वम्।
प्रकृते च ᳚सदेव सोम्येदमग्र आसीत्᳚ इत्युपक्रम्य
᳚तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो᳚
इत्युपसंहारेण विशुद्धेब्रह्मणि वेदान्तानां तात्पर्यमवसितम्
इति कथं तात्पर्याविषयं संसर्गमवबोधयेत्। इदमेव
᳚तत्त्वमसि᳚इत्यादिवाक्यानामखण्डार्थत्वं यत्
संसर्गानवगाहियथार्थज्ञानजनकत्वमिति । तदुक्तम्।
᳚संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम्।
paribhasha.pdf 7
॥ वेदान्त परिभाषा ॥
8 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 9
॥ वेदान्त परिभाषा ॥
10 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 11
॥ वेदान्त परिभाषा ॥
12 sanskritdocuments.org
.. Vedanta Paribhasha ..
२ ॥ अनुमानम्॥
अथानुमानं निरूप्यते । अनुमितिकरणमनुमानम्। अनुमितिश्च
व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या । व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन
तज्जन्यत्वाभावान्नानुमितित्वम्।
अनुमितिकरणं च व्याप्तिज्ञानम्। तत्संस्कारोऽवान्तरव्यापारः ।
न तु तृतीयलिङ्गपरामर्शोऽनुमितौ करणम् तस्यानुमितिहेतुत्वासिद्ध्या
तत्करणत्वस्य दूरनिरस्तत्वात्। न च संस्कारजन्यत्वेनानुमितेः
स्मृतित्वापत्तिः स्मृतिप्रागभावजन्यत्वस्य संस्कारमात्रजन्यत्वस्य
वा स्मृतित्वप्रयोजकतया संस्कारध्वंससाधारणसंस्कारजन्यत्वस्य
तदप्रयोजकत्वात्।
न च यत्र व्याप्तिस्मरणादनुमितिस्तत्र कथं संस्कारोहेतुरिति
वाच्यम् व्याप्तिस्मृतिस्थलेऽपि तत्संस्कारस्यैवानिमितिहेतुत्वात्।
नहि स्मृतेः संस्कारनाशकत्वनियमः स्मृतिधारादर्शनात्। न
चानुबुद्धसंस्कारादप्यनुमित्यापत्तिः तदुद्बोधस्यापि सहकारित्वात्।
एवं च ᳚अयं धूमवान्᳚इति पक्षधर्मताज्ञाने ᳚धूमो
वह्निव्याप्यः ᳚इत्यनुभवाहितसंस्कारोद्बोधे च सति ᳚वह्निमान्᳚
इत्यनुमितिर्भवति । न तु मध्ये व्याप्तिस्मरणम् तज्जन्यं
᳚वह्निव्याप्यधूमवानयम्᳚इत्यादि विशिष्टज्ञानं वा
हेतुत्वेन कल्पनीयम् गौरवान्मानाभावाच्च । तच्च व्याप्तिज्ञानं
वह्निविषयकज्ञानांश एव करणम् न तु पर्वतविषयकज्ञानांश
इति ᳚पर्वतो वह्निमान्᳚इति ज्ञानस्य वह्न्यंश एव अनुमितित्वम्
न पर्वतांशे तदंशे प्रत्यक्षत्वस्योपपादितत्वात्।
व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यरूपा ।
सा च व्यभिचारादर्शने सति सहचारदर्शनेन गृह्यते । तच्च
सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः
paribhasha.pdf 13
॥ वेदान्त परिभाषा ॥
सहचारदर्शनस्यैव प्रयोजकत्वात्।
तच्चानुमानमन्वयिरूपमेकमेव । न तु केवलान्वयि सर्वस्यापि
धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन
अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः ।
नाप्यनुमानस्य व्यतिरेकिरूपत्वम् साध्याभावे साधनाभाव-
निरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात्।
कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्ति-
ज्ञानादनुमितिः । अर्थापत्तिप्रमाणादिति वक्ष्यामः । अत
एवानुमानस्य नान्वयव्यतिरेकिरूपत्वम् व्यतिरेकव्याप्तिरूपत्वम्
व्यतिरेकव्याप्तिज्ञानस्य अनुमित्यहेतुत्वात्।
तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम्। तत्र स्वार्थन्तूक्तमेव
परार्थन्तु न्यायसाध्यम्। न्यायो नामावयवसमुदायः । अवयवश्च त्रय एव -
प्रतिज्ञाहेतूदाहरणरूपाः उदाहरणोपनयनिगमनरूपा वा । न तु
पञ्च अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकवयव-
द्वयस्य व्यर्थत्वात्।
एवमनुमाने निरूपिते तस्माद् ब्रह्मभिन्ननिखिलप्रपञ्चस्य
मिथ्यात्वसिद्धिः । तथाहि - ब्रह्मभिन्नं सर्वं मिथ्या ब्रह्मभिन्नत्वात्
यदेवं तदेवम् यथा शुक्तिरूप्यम्। न च दृष्टान्तसिद्धिः तस्य
साधितत्वात्। न चाप्रयोजकत्वम् शुक्तिरूप्यरज्जुसर्पादीनां
मिथ्यात्वे ब्रह्मभिन्नत्वस्यै लाघवेन प्रयोजकत्वात्। मिथ्यात्वं च
स्वाश्रयत्वेनाभिमत-यावन्निष्ठात्यन्ताभावप्रतियोगित्वम्।
’ अभिमत ’-पदं वस्तुतः स्वाश्रयाप्रसिद्ध्याऽसम्भववारणाय
’ यावत्’ - पदमर्थान्तरवारणाय । तदुक्तम्-
᳚सर्वेषामपि भावाना स्वाश्रयत्वेन सम्मते ।
प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ॥ ᳚इति ।
यद्वा अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात्
पटान्तरवत्- इत्याद्यनुमानं मिथ्यात्वे प्रमाणम्। तदुक्तम्-
᳚अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः ।
अंशित्वादितरांशीव दिगेषैव गुणादिषु ॥ ᳚इति ।
न च घटादेर्मिथ्यात्वे ᳚सन्घटः ᳚इति प्र्त्यक्षेण
बाधः अधिष्ठानब्रह्मसत्तयास्तत्र विषयतया घटादेः
सत्यत्वासिद्धेः ।
न च नीरूपस्य ब्रह्मणः कथं चाक्ष्षादिज्ञान्विषयतेति
वाच्यम् नीरूपस्यापि रूपादेः प्रत्यक्षविषयत्वात्। न च
नीरूपस्य द्रव्यस्य चक्षुराद्ययोग्यत्वमिति नियमः मन्मते
14 sanskritdocuments.org
.. Vedanta Paribhasha ..
३ उपमानम्।
अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानम्।
तथा हि - नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य
गवेयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः ᳚अयं पिण्डो गोसदृशः ᳚
इति । तदनन्तरं च भवति निश्चयः ᳚अनेन सदृशी मदीया
᳚गौः ᳚इति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं
करणम् गोनिष्ठगवयसादृश्यज्ञानं फलम्।
न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात्।
नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्य अतल्लिङ्गत्वात्। नापि
मदीया गौरेतद्गवयसदृशी
एनन्निष्ठसादृश्यप्रतियोगित्वात्
यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः
यथा मैत्रनिष्ठसादृश्यप्रतियोगी चत्रो मैत्रसदृशः -
इत्यनुमानात्तत्सम्भवैति वाच्यम्। एवंविधानुमानानवतारेऽपि
᳚अनेन सदृशी मदीया गौः ᳚इति प्रतीतेरनुभवसिद्धत्वात्
᳚उपमिनोमि ᳚इत्यनुव्यवसायाच्च । तस्मादुपमानं मानान्तरम्।
इति वेदान्तपरिभाषायामुपमानपरिच्छेदः ।
४ आगमः ।
paribhasha.pdf 15
॥ वेदान्त परिभाषा ॥
16 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 17
॥ वेदान्त परिभाषा ॥
18 sanskritdocuments.org
.. Vedanta Paribhasha ..
विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य
पदस्थानीयतया विधिवाक्येनैकवाक्यत्वं भवति इत्यर्थवादवाक्यानां
पदैकवाक्यता । क्व तर्हि वाक्यैकवाक्यता । यत्र प्रत्येकं
भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकांक्षावशेन
महावाक्यार्थबोधकत्वम्। यथा ᳚दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत ᳚इत्यादिवाक्यानां ᳚समिधो यजति ᳚
इत्यादिवाक्यानां च परस्परोपेक्षिताङ्गाङ्गिभावबोधकतया
एकवाक्यता । तदुक्तं भट्टपादैः -
᳚स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ॥ ᳚इति ।
एवं द्विविधोऽपि पदार्थो निरूपितः । तदुपस्थितिश्चासत्तिः ।
सा च शाब्दबोधे हेतुः तथैवान्वयव्यतिरेकदर्शनात्। एवं
महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः तथैवान्वया -
द्यवधारणात्।
क्रमप्राप्तं तात्पर्यं निरूप्यते । तत्र तत्प्रतीतीच्छयोच्चरितत्वं
न तात्पर्यम् अर्थज्ञानशून्येन पुरूषेणोच्चरिताद्वेदादर्थप्रत्याया-
भावप्रसङ्गात्᳚अयमध्यापकोऽव्युत्पन्नः ᳚इति विशेषदर्शनेन
तात्पर्यभ्रमस्याप्यभावात्। न चेश्वरीयतात्पर्यज्ञानात्
तत्र शाब्दबोध इति वाच्यम् ईश्वरानङ्गीकर्तृरपि तद्वाक्यार्थ-
प्रतिपत्तिदर्शनात्उच्यते । तत्प्रतीतिजननयोग्यत्वं तात्पर्यम्।
᳚गेहे घटः ᳚इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यम्
न तु पटसंसर्गप्रतीतिजननयोग्यमिति तद्वाक्यं घटसंसर्गपरम्
न तु पटसंसर्गपरमित्युच्यते ।
ननु ᳚सैन्धवमानय ᳚इत्यादिवाक्यं यदा लवणानयन -
प्रतीतीच्छया प्रयुक्तं तदापि अश्वसंसर्गप्रतीतिजनने
स्वरूपयोग्यतासत्त्वात्लवणपरत्वज्ञानदशायामश्वादि -
संसर्गज्ञानापत्तिरिति चेत् न तदितरपरतीतीच्छया -
नुच्चरितत्वस्यापितात्पर्यं प्रति विशेषणत्वात्। तथा च
यद्वाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति
यदन्यप्रतीतीच्छया नोच्चरितम् तद्वाक्यं तत्संसर्ग -
परमित्युच्यते । शुकादिवाक्ये अव्युत्पन्नोच्चरितवेदवाक्यादो
च प्रतीतीच्छाया एवाभावेन तदन्यप्रतीतीच्छयो -
च्चरितत्वाभावेन लक्षणसत्त्वान्नाव्याप्तिः । न
चोभयप्रतीतीच्छयोच्चरितेऽव्याप्तिः तदन्यमात्र -
प्रतीतीच्छयाऽनुच्चरितत्वस्य विवक्षितत्वात्।
उक्तप्रतीतिमात्रजननयोग्यतायाश्चावच्छेदिका शक्तिः ।
paribhasha.pdf 19
॥ वेदान्त परिभाषा ॥
20 sanskritdocuments.org
.. Vedanta Paribhasha ..
५ अर्थापत्तिः ।
इदानीमर्थापत्तिर्निरूप्यते । तत्रोपपाद्यज्ञानेनोपपादककल्पन -
मर्थर्थाप्त्तिः । तत्रोपपाद्यज्ञानं करणम् उपपादकज्ञानं
फलम्। येन विना यदनुपपन्नं तत्तत्रोपपाद्यम्। यस्याभावे
यस्यानुपपत्तिः तत्तत्रोपपादकम्। यथा रात्रिभोजनेन
विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नम् इति तादृशं
पीनत्वमुपपाद्यम् यथा वा रात्रिभोजनस्याभावे तादृश -
पीनत्वस्यानुपपत्तिः इति रात्रिभोजनमुपपादकम्।
सा चार्थापत्तिर्द्विविधा - दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति ।
तत्र दृष्टार्थापत्तिर्यथा ᳚इदं रजतम्᳚इति पुरोवर्तिनि
प्रतिपन्नस्य रजतस्य ᳚नेदं रजतम्᳚इति तत्रैव
निषिध्यमानत्वं सत्यत्वऽनुपपन्नम् इति रजतस्य सद्भिन्नत्वं
सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति ।
श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन
अर्थान्तरकल्पनम्। यथा ᳚तरति शोकमात्मवित्᳚इत्यत्र
श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथा -
नुपपत्या बन्धस्य मिथ्यात्वं कल्पते । यथा वा ᳚जीवी
देवदत्तो ᳚गृहे न ᳚इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं
बहिःसत्त्वं कल्पयति ।
श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिः अभिहितानुपपत्तिश्च ।
paribhasha.pdf 21
॥ वेदान्त परिभाषा ॥
६ अनुपलब्धि ।
इदानीं षष्ठं प्रमाणं निरूप्यते । ज्ञानकरणाजन्याभावानुभवा -
साधारणकारणमनुपलब्धिरूपं प्रमाणम्। अनुमानादिजन्या -
तीन्द्रियाभावानुभवहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तं
पदम्। अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासधारणेति ।
अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति
विशेषणम्। न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो
गृह्यताम् विशेषाभावादिति वाच्यम्। धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि
तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावाग्राहकत्वात्।
22 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 23
॥ वेदान्त परिभाषा ॥
24 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 25
॥ वेदान्त परिभाषा ॥
७ प्रामाण्यम्।
एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम्-
व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति । तत्र
ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं
प्रामाण्यम् तद्विषयाणां व्यवहारदशायां बाधाभावात्।
द्वितीयन्तु जीवब्रह्मैक्यपराणां ᳚सदेव सोम्येदमग्र आसीत्᳚
इत्यादिनां ᳚तत्त्वमसि ᳚इत्यन्तानाम् तद्विषयस्य जीवपरैक्यस्य
कालत्रयांबाध्यत्वात्। तच्चैक्यं ’ तत्त्वं ’ - पदार्थज्ञानाधीन-
ज्ञानमिति प्रथमं ’ तत्’ - पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते ।
तत्र लक्षणं द्विविधम्- स्वरूपलक्षणं तटस्थलक्षणं चेति ।
तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम्। यथा सत्यादिकं
ब्रह्मस्वरूपलक्षणम् ᳚सत्यं ज्ञानमनन्तं ब्रह्म ,᳚᳚आनन्दो
ब्रह्मेति व्यजानात्᳚इत्यादिश्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे
कथं लक्षणत्वमिति चेत् न स्वस्यैव स्वापेक्षया धर्मिधर्म -
भावल्पनया लक्ष्यलक्षणत्वसम्भवात्। तदुक्तम्- ᳚आनन्दो
विषयानुभवओ नित्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि
चैतन्यात्पृथगिवावभासन्ते ᳚इति ।
तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकं
तदेव । यथा गन्धवत्वं पृथिवीलक्षणम् महाप्रलये परमाणुषु
उत्पत्तिकाले घटादिषु च गन्धाभावात्। प्रकृते च जगज्जन्मादिकारणत्वम्।
अत्र ’ जगत्’ - पदेन कार्यजातं विवक्षितम्। कारणत्वं च
कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः । कर्तृत्वं च तत्तदुपादान -
गोचरापरोक्षज्ञानचिकिर्षाकृतिमत्वम्। ईश्वरस्य तावदुपादानगोचरा -
परोक्षज्ञानसद्भावे - ᳚यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः ।
26 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 27
॥ वेदान्त परिभाषा ॥
28 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 29
॥ वेदान्त परिभाषा ॥
30 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 31
॥ वेदान्त परिभाषा ॥
32 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 33
॥ वेदान्त परिभाषा ॥
वृत्त्यन्तःकरणविषयाणामेकदेशस्थत्वेन तदुपधेयभेदाभावस्य
उक्तत्वात्। एवमपरोक्षस्तहले वृत्तेर्मतभेदेन विनियोग उपपादितः ।
इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था ।
जाग्रदवस्थाव्यावृत्त्यर्थम् ᳚इन्द्रियाजन्ये ᳚ति । अविद्यावृत्तिमत्यां
सुषुप्तावतिव्याप्तिवारणाय ᳚अन्तःकरणे ᳚ति । सुषुप्तिर्नाम अविद्या -
गोचराविद्यावृत्त्यवस्था । जाग्रत्स्वप्नयोरविद्याकारवृत्तेरन्तःकरणवृत्तित्वान्न
तत्रातिव्याप्तिः । अत्र केचिन्मरणभूर्छयोरवस्थान्तरत्वमाहुः, अपरे
तु सुषुप्तावेव तयोरन्तर्भावमाहुः । तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोः
᳚त्वं ᳚- पदार्थनिरूपणे उपयोगाभावात्न तत्र प्रयत्यते ।
तस्य मायोपाध्यपेक्षया एकत्वम्, अन्तःकरणोपाध्यपेक्षया च
नानात्वं व्यवह्रियते । एतेन जीवस्याणुत्वं प्रत्युक्तम्,
᳚बुद्धेर्गुणेन चैवं ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः । ᳚
इत्यादौ जीवस्य ᳚बुद्धि ᳚- शब्दवाच्यान्तःकरणपरिणामोपाधिकस्य
परमाणुत्वश्रवणात्।
स च जीवः स्वयंप्रकाशः , स्वप्नावस्थामधिकृत्य ᳚अत्रायं पुरुषः
स्वयं ज्योतिः ᳚इति श्रुतेः । अनुभवरूपश्च , ᳚प्रज्ञानघन एव ᳚
इत्यादिश्रुतेः । ᳚अनुभवामि ᳚इति व्यवहारस्तु वृत्ति प्रतिबिम्बित-
चैतन्यमादाय उपपद्यते ।
एवं ᳚त्वं ᳚- पदार्थो निरूपितः ।
अधुना ’ तत्- त्वम्᳚- पदार्थयोरैक्यं महावाक्यप्रतिपाद्य -
मभिधीयते । ननु ᳚नाहमीश्वरः ᳚इत्यादिप्रत्यक्षेण ,
किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्माश्रयत्वादिलिङ्गेन ,
᳚द्वा सुपर्णा ᳚इत्यादिश्रुत्या -
᳚द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ ᳚
इत्यादिस्मृत्या च जीवपरभेदस्यावगतत्वेन ᳚तत्त्वमस्या ᳚-
दिवाक्यम्᳚आदित्यो यूपः , ᳚᳚यजमानः प्रस्तरः ᳚
इत्यादिवाक्यवदुपचरितार्थमेव, इति चेत्, न । भेदप्रत्यक्षस्य
सम्भावितकरणदोषस्यासम्भावितदोषवेदजन्यज्ञानेन
बाध्यमानत्वात्। अन्यथा चन्द्रगताधिकपरिमाणग्राहिज्योतिः -
शास्त्रस्य चन्द्रप्रादेशग्राहिप्रत्यक्षेण बाधापत्तेः । पाकरक्ते
घटे ᳚रक्तोऽयम्, न श्यामः ᳚इतिवत्᳚सविशेषणे हि ᳚
इति न्यायेन जीवपरभेदग्राहिप्रत्यक्षस्य विशेषणीभूतधर्म -
भेदविषयत्वाच्च । अत एव नानुमानमपि प्रमाणम्,
आगमविरोधात्, मेरुपाषाणमयत्वानुमानवत्।
नाप्यागमान्तरविरोधः । तत्परातत्परवाक्ययोस्तत्परवाक्यस्य
34 sanskritdocuments.org
.. Vedanta Paribhasha ..
८ प्रयोजनम्।
इदानीं प्रयोजनं निरूप्यते । यदवगतं सत्स्ववृत्तितया इष्यते
तत्प्रयोजनम्। तच्च द्विविधम्- मुख्यं गौणं चेति । तत्र
सुखदुःखाभावौ मुख्ये प्रयोजने , तदन्यतरसाधनं गौणं प्रयोजनम्।
सुखं च द्विविधम्- सातिशयं निततिशयं च । तत्र सातिशयं सुखं
विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः ,
᳚एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ᳚इत्यादि श्रुतेः ।
निरतिशयं सुखं च ब्रह्मैव , ᳚आनन्दो ब्रह्मेति व्यजानात्, ᳚
᳚विज्ञानमानन्दं ब्रह्म ᳚इत्यादि श्रुतेः ।
आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः , शोकनिवृत्तिश्च ,
᳚ब्रह्म वेद ब्रह्मैव भवति , ᳚᳚तरति शोकमात्मवित्᳚
इत्यादि श्रुतेः । न तु लोकान्तरावाप्तिः , तज्जन्यवैषयिकानन्दो
वा मोक्षः , तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः ।
ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो
दोषः , अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति
चेत्, न , सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण
paribhasha.pdf 35
॥ वेदान्त परिभाषा ॥
36 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 37
॥ वेदान्त परिभाषा ॥
शाब्दज्ञानाभावेन
श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्च्यानुकूलमननायोगात्।
एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या
ऊचिरे ।
अपरे तु श्रवणं प्रधानम्, मनननिदिध्यासनयोस्तु
श्रवणात्
पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया
आरादुपकारक -
तयाऽङ्गत्वमित्याहुः । तदप्यङ्गत्वं न
तार्तीयशेषत्वरूपम्,
तस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते
श्रुत्याद्यभावेऽसम्भवात्।
तथा हि ᳚ब्रीहिभिर्यजेत , ᳚᳚दध्ना जुहोति ᳚
इत्यादाविव
मनननिदिध्यासनयोरङ्गत्वे न काचित्तृतीया श्रुतिरस्ति ।
नापि ᳚बर्हिर्देवसदनं दामि ᳚इत्यादि मन्त्राणां
बर्हिःखण्डन -
प्रकाशनसामर्थ्यवत्किञ्च्ल्लिङ्गमस्ति । नापि
प्रदेशान्तरपठितस्य
प्रव्र्गस्य ᳚अग्निष्टोमे प्रवृणक्ति ᳚इति वाक्यवत्
श्रवणानुवादेन
मनननिदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति । नापि
᳚दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ᳚इति
वाक्यावगतफल -
साधनताकदर्शपूर्णमासप्रकरणे प्रयाजादीनामिव
फलसाधनत्वे -
नावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नानम्
।
ननु ’ द्रष्टव्यः ’ इति दर्शनानुवादेन श्रवणे विहिते सति
फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः
प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत्, न , ᳚ते ध्यानयोगानुगता
अपश्यन्᳚इतादि श्रुत्यन्ते ध्यानस्य दर्शनसाधनत्वेनावगतस्य
अङ्गाकाङ्क्ष्यायां प्रयाजन्ययेन श्रवणमननयोरेवाङ्गत्वापत्तेः ।
क्रमसमाख्ये च दूरनिरस्ते ।
किञ्च प्रयाजादिष्वङ्गत्वविचारः सप्रयोजनः । पूर्वपक्षे
विकृतिषु न प्रयाजाद्यनुष्ठानम्; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति ।
38 sanskritdocuments.org
.. Vedanta Paribhasha ..
paribhasha.pdf 39
॥ वेदान्त परिभाषा ॥
40 sanskritdocuments.org
.. Vedanta Paribhasha ..
प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया ।
तदेवं ब्रह्मज्ञानान्मोक्षः । स चानर्थनिवृत्तिर्निरतिशय -
ब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम्।
इति वेदान्तपरिभाषायां प्रयोजनपरिच्छेदः ।
इति धर्मराज अध्वरीन्द्र विरचिता
वेदान्त परिभाषा समाप्ता ॥
.. Vedanta Paribhasha ..
was typeset on August 2, 2016
paribhasha.pdf 41