Paribhasha
Paribhasha
Paribhasha
वेदान्त परिभाषा
Document Information
Category : major_works
Location : doc_z_misc_major_works
Translated by : -
This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.
Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.
sanskritdocuments.org
Vedanta Paribhasha
वेदान्त परिभाषा
by Dharmaraja Adhvarindra
१ प्रत्यक्ष प्रमाणम्।
२ अनुमानम्।
३ उपमानम्।
४ आगमः ।
५ अर्थापत्तिः ।
६ अनुपलब्धि ।
७ प्रामाण्यम्।
८ प्रयोजनम्।
१ प्रत्यक्ष प्रमाणम्।
यदविद्याविलासेन भूतभौतिकसृष्टयः ।
तं नौमि परमात्मानं सच्चिदानन्दविग्रहम्॥ १॥
यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः ।
तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम्॥ २॥
श्रीमद्वेङ्कटनाथाख्यान्वेलाङ्गुडिनिवासिनः ।
जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान्॥ ३॥
येन चिन्तामणौ टीका दशटीकाविभञ्जिनी ।
तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा ॥ ४॥
टीका शशधरस्यापि बालव्युत्पत्तिदायिनी ।
पदयोजनया पञ्चपादिका व्याकृता तथा ॥ ५॥
तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी ।
धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते ॥ ६॥
1
वेदान्त परिभाषा
2 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 3
वेदान्त परिभाषा
4 sanskritdocuments.org
वेदान्त परिभाषा
च नियमेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात्
नियमेन ᳚अहं सुखी᳚ इत्यादिज्ञानस्य प्रत्यक्षत्वम्।
नन्वेवं स्ववृत्तिसुखादिस्मरणस्यापि सुखाद्यंशे
प्रत्यक्षत्वापत्तिरिति चेत् न तत्र स्मर्यमाणसुखस्यातीतत्वेन
स्मृतिरूपान्तःकरणवृत्तेर्वर्तमानत्वेन तत्रोपाध्योर्भिन्नकालीनतया
तत्तदवच्छिन्नचैतन्ययोर्भेदात्। उपाध्योरेकदेशस्थत्वे सति
एककालीनत्वस्यैवोपाधेयाभेदप्रयोजकत्वात्। यदि
चैकदेशस्थत्वमात्रमुपधेयाभेदप्रयोजकम् तदा अहं ᳚
पूर्वं सुखी᳚ इत्यादिस्मृतावतिव्याप्तिवारणाय
वर्तमातत्वं विषय-विशेषणं देयम्।
नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा
शब्दादिना ज्ञायते तदा तादृशशाब्दज्ञानादावतिव्याप्तिः तत्र
धर्माद्यवच्छिन्न-तद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वादिति
चेत् न । योग्यत्वस्यापि विषयविशेषणत्वात्।
अन्तःकरणधर्मत्वाविशेषेऽपि किञ्चिदयोग्यमित्यत्र
फलवलकल्प्यः स्वभाव एव शरणम्।
अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषात्
सुखादिवत्धर्मादेरपि प्रत्यक्षत्वापत्तिर्दुर्वारा ।
न चैवमपि सुखस्य वर्तमानतादशायां ᳚त्वं
सुखी ᳚ इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षता स्यादिति वाच्यम्
इष्टत्वात्। ᳚ दशमस्त्वमसि ᳚ इत्यादौ
सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात्।
अत एव ᳚ पर्वतो वह्निमान्᳚इत्यादिज्ञानमपि बह्वंशे
परोक्षम् पर्वतांशेऽपरोक्षम्पर्वताद्यवच्छिन्नचैतन्यस्य
बहिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्याभेदात्।
वह्न्यंशे तु अन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्न-
चैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात्।
तथाचानुभवः ᳚पर्वतं पश्यामि᳚ ᳚वह्निमनुमिनोमि ᳚
इति । न्यायमते तु ᳚ पर्वतमनुमिनोमि ᳚ इत्युनुव्यवसायापत्तिः ।
असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं
परोक्षम्। ᳚सुरभि चन्दनम्᳚ इत्यादिज्ञानमपि
paribhasha.pdf 5
वेदान्त परिभाषा
चन्दनखण्डांशेऽपरोक्षम्
सौरभांशे च परोक्षम् सौरभस्य
चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात्।
न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे
तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात्।
जातित्वोपाधित्वपरिभाषायाः
सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात्।
᳚घटोऽयम्᳚ इत्यादिप्रत्यक्षं हि घटत्वादिसद्भावे
मानम् न तु तस्य जातित्वेपि जातित्वरूपसाध्यप्रसिद्धौ
तत्साधकानुमानस्याप्यनवकाशात्। समवायासिद्धया
ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य
घटत्वादावसिद्धेश्च । एवमेवोपाधित्वं निरसनीयम्।
᳚पर्वतो वह्निमान्᳚ इत्यादौ च पर्वतांशे वह्न्यंशे
चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन
परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चित्विरोधः । तथा
च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्यभिन्नत्वं
तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम्।
घटादेर्विषयस्य प्रत्यक्षत्वन्तु प्रमात्रभिन्नत्वम्।
᳚
ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्यभेदः अहमिदं
पश्यामि᳚ इति भेदानुभवविरोधादिति चेत् उच्यते । प्रमात्रभेदो
नाम न तावदैक्यम् किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा
च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव
घटादिसत्ता अधिष्ठानसत्तातिरिक्तया
आरोपितसत्तायानङ्गीकारात्। विषयचैतन्यं च
पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यैस्यैव
घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति
सिद्धं घटादेरपरोक्षत्वम् अनुमित्यादिस्थले त्वन्तःकरणस्य
वह्न्यादिदेशनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य
प्रमातृचैतन्यात्मकतया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्ना इति नातिव्याप्तिः ।
नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले
धर्माधर्मयोः प्रत्यक्षत्वापत्तिः
धर्माद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया
6 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 7
वेदान्त परिभाषा
8 sanskritdocuments.org
वेदान्त परिभाषा
᳚संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम्।
उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥᳚
प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वम्इति चतुर्थपादार्थः ।
तच्च प्रत्यक्षं पुनर्द्विविधम्- जीवसाक्षि ईश्वरसाक्षि
चेति । तत्र जीवो नाम अन्तःकरणावच्छिन्नं चैतन्यम्
तत्साक्षी तु अन्तःकरणोपहितं चैतन्यम्।
अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः ।
विशेषणञ्च कार्यान्वयि वर्तमानं
व्यावर्तकम्उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च ।
᳚रूपविशिष्टोघटोऽनित्यः᳚इत्यत्र
रूपं विशेषणम् ᳚कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्᳚
इत्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधिर्नैयायिकैः परिचायक
इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन
विषयभासकचैतन्योपाधित्वम्। अयञ्च जीवसाक्षी प्रत्यात्मं
नाना एकत्वे चैत्रावगते मैत्रस्याप्यनुसन्धानप्रसङ्गः ।
ईश्वरसाक्षी तु मायोपहितं चैतन्यम्। तच्चैकम्
तदुपाधिभूतमायाया एकत्वात्। ᳚इन्द्रो मायाभिः पुरुरूप
ईयते᳚ इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागत-
शक्तिविशेषाभिप्रायतया मायागतसत्त्वरजस्तमोरूपगुणाभि-
प्रायतया वोपपत्तिः ।
᳚मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्।᳚
᳚तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगी मायाममेयाम तस्मै विद्यात्मने नमः ॥᳚
᳚अजामेकां लोहितशुक्लकृष्णां
वह्नीः प्रजा सृजमानां सरूपाः ।
अजो ह्येको जुषमानोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ ᳚
इत्यादि श्रुतिस्मृतिषु एकवचनेन लाघवानुगृहीतेन मायाया
एकत्वं निश्चीयते ।
ततश्च तदुपहितं चैतन्यम्ईश्वरसाक्षी । तच्चानादि
तदुपाधेर्मायाया अनादित्वात्। मायावच्छिन्नं चैतन्यं च परमेश्वरः ।
paribhasha.pdf 9
वेदान्त परिभाषा
10 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 11
वेदान्त परिभाषा
रिदमाकारानुभवविषयत्वम् अहमाकारानुभवाहितसंकार-
सहकृताविद्याकार्यत्वादन्तःकरणादेरहमाकारानुभवविषयत्वम्
शरीरेन्द्रियादेरुभयविधानुभवसंस्कारसहिताविद्याकार्यत्वा-
दुभयविधानुभवविषयत्वम्। तथाचोभयविधानुभवः - इदं
शरीरम् अहं देहः अहं मनुष्यः अहं ब्राह्मणः इदं चक्षुः
अहं काणः इदं श्रोत्रम् अहं बधिर इति । प्रकृते
प्रातिभासिकरजतस्य प्रमातृचैतन्याभिन्नेदमवच्छिन्नचैतन्य-
निष्ठाविद्याकार्यत्वेऽपि इदं रजतमिति सत्यस्थलीयेदमाकारा-
नुभवाहितसंस्कारजन्यत्वाद्दिदमाकारानुभवविषयता न तु
᳚ अहं रजतम्᳚ इत्यहमाकारानुभवविषयता इत्यनुसन्धेयम्।
नन्वेवमपि मिथ्यारजतस्य साक्षात्साक्षिसम्बन्धितया भानसम्भवे
रजतगोचरज्ञानाभासरूपाया अविद्यावृत्तेरभ्युपगमः किमर्थमिति चेत्
उच्यते । स्वगोचरवृत्त्युपहितप्रमातृचैतन्यभिन्नसत्ताकत्वाभावस्य
विषयापरोक्षत्वरूपतया रजतस्यापरोक्षसिद्धये तदभ्युपगमात्।
नन्विदंवृत्ते रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे गुरुमतवद्विशिष्ट-
ज्ञानानप्युपगमे कुतो भ्रमज्ञानासिद्धिरिति चेत् न वृत्तिद्वय-
प्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेन
भ्रमत्वस्वीकारात्। अत एव साक्षिज्ञानस्य सत्यासत्यविषयतया
प्रामाण्यानियमादप्रामाण्योक्तिः साम्प्रदायिकानाम्।
ननु सिद्धान्ते देशान्तरीयरजतमप्यविद्याकार्यमध्यस्तञ्चेति
कथं शुक्तिरूप्यस्य ततो वैलक्षण्यम्इति चेत् न । त्वन्मते
सत्यत्वाविशेषेऽपि केषाञ्चित्क्षणिकत्वं केषाञ्चित्स्थायित्वम्
इत्यत्र यदेव नियामकं तदेव स्वभावविशेषादिकं ममापि । यद्वा
घटाद्यध्यासे अविद्यैव दोषत्वेन हेतुः शुक्तिरूपाद्यध्यासे तु
काचादयोऽपि दोषाः । तथाचागन्तुकदोषजन्यत्वं प्रातिभासिकत्वे
प्रयोजकम्। अत एव स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादोषजन्यत्वात्।
प्रातिभासिकत्वम्।
ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपत्तौ
न रथादिसृष्टिकल्पनम् गौरवात् इति चेत् न रथादेः
स्मृतिमात्राभ्युपगमे ᳚ रथं पश्यामि ᳚ ᳚ स्वप्ने रथ-
मद्राक्ष्यम्᳚ इत्याद्यनुभवविरोधापत्तेः । ᳚ अथ रथान्
रथयोगान्पथः सृजते ᳚ इति रथादिसृष्टिप्रतिपादकश्रुति-
12 sanskritdocuments.org
वेदान्त परिभाषा
विरोधापत्तेश्च । तस्मात्शुक्तिरूप्यवत्स्वप्नोपलब्धरथादयोऽपि
प्रातिभासिका यावत्प्रतिभासमवतिष्ठन्ते ।
ननु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमानदेशविशेषस्यापि
तदाऽसन्निकृष्टतया अनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्यव्यः
तथा च रथाद्यध्यासः कुत्र इति चेत् न चैतन्यस्य स्वयंप्रकाशस्य
रथाद्यधिष्ठानत्वात्। प्रतीयमानं रथाद्यस्तीत्येव प्रतीयते इति
सद्रूपेन प्रकाशमानं चैतन्यमेवाधिष्ठानम्। देशविशेषोऽपि
चिदध्यस्तः प्रातिभासिकः रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम्
तदा सर्वेन्द्रियाणामुपरमात्। ᳚ अहं रथः ᳚ इत्यादिप्रतीत्यापादनन्तु
पूर्ववन्निरसनीयम्। स्वप्नरथदयः साक्षान्मायापरिणामा इति
केचित्। अन्तःकरणद्वारा तत्परिणामा इत्यन्ये ।
ननु रथादेः शुद्धचैतन्याध्यस्तत्वे इदानीं तत्साक्षा-
त्काराभावेनजागरणेऽपि स्वप्नोपलब्धरथादयोऽनुवर्तेरन्।
उच्यते । कार्यविनाशो हि द्विविधः कश्चिदुपादानेन सह कश्चित्तु
विद्यमानएवोपादाने । आद्यो बाधः द्वितीयस्तु निवृत्तिः । आद्यस्य
कारणमधिष्ठानतत्त्वसाक्षात्कारः तेन विनोपादानभूताया
अविद्याया अनिवृत्तेः । द्वितीयस्य कारणं विरोधिवृत्त्युत्पत्ति-
र्दोषनिवृत्तिर्वा । तदिह ब्रह्मसाक्षात्काराभावात्स्वप्नप्रपञ्चो मा
बाधिष्ठ मुसलप्रहारेण घटादेरिव विरोधिप्रत्ययान्तरोदयेन
स्वजनकीभूतनिद्रादिदोषनाशेन वा रथादिनिवृत्तौ को विरोधः ।
एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्या-
कार्यत्वपक्षे शुक्तिरितिज्ञानेन तदज्ञानेन सह रजतस्य बाधः ।
मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मसाक्षात्कारमात्र-
निवर्त्यतया रजतस्य तत्र शुक्तिज्ञानान्निवृत्तिमात्रम् मुसल-
प्रहारेण घटस्येव ।
ननु शुक्तौ रजतस्य प्रतिभाससमये प्रातिभासिकसत्ताभ्युपगमे
᳚ नेदं रजतम्᳚ इति त्रैकालिकनिषेधज्ञानं न स्यात् किन्तु
᳚ इदानीमिदं न रजतम्᳚ इति स्यात् ᳚ इदानीं घटः
श्यामो न ᳚ इतिवत् इति चेत् न नहि तत्र
रजतत्वावच्छिन्नप्रतियोगिताकाभावो निषेधधीविषयः किन्तु
लौकिकपारमार्थिकत्वावच्छिन्न- प्रातिभासिकरजतप्रतियोगिताकः
व्यधिकरणधर्मावच्छिन्नप्र्तैयोगिताकाभावाभ्युपगमात्।
paribhasha.pdf 13
वेदान्त परिभाषा
२ ॥ अनुमानम्॥
14 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 15
वेदान्त परिभाषा
16 sanskritdocuments.org
वेदान्त परिभाषा
ज्ञानविषयत्वे न विरोधः ।
यद्वा त्रिविधं सत्त्वम् - पारमार्थिकं व्यावहारिकं
प्रातिभासिकं चेति । पारमार्थिकं सत्त्वं ब्रह्मणः व्यावहारिकं
सत्त्वमाकाशादेः प्रातिभासिकं सत्त्वं शुक्तिरजतादेः । तथा च
᳚ घटः सन्᳚ इति प्रत्यक्षस्य व्यावहारिकसत्त्वविषयत्वेन
प्रामाण्यम्। अस्मिन्पक्षे घटादेर्ब्रह्मणि निषेधो न स्वरूपेण
किन्तु पारमार्थिकत्वेनैवेति न विरोधः । अस्मिन्पक्षे च
मिथ्यात्वलक्षणे पारमार्थिकत्वावच्छिन्नप्रतियोगिताकत्व -
मत्यन्ताभावविशेषणं द्रष्टव्यम्। तस्मादुपपन्नं
मिथ्यात्वानुमानमिति ।
इति वेदान्तपरिभाषायामनुमानपरिच्छेदः ।
३ उपमानम्।
अथोपमानं निरूप्यते । तत्र सादृश्यप्रमाकरणमुपमानम्।
तथा हि - नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य
गवेयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः ᳚अयं पिण्डो गोसदृशः ᳚
इति । तदनन्तरं च भवति निश्चयः ᳚अनेन सदृशी मदीया
᳚ गौः ᳚ इति । तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं
करणम् गोनिष्ठगवयसादृश्यज्ञानं फलम्।
न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात्।
नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्य अतल्लिङ्गत्वात्। नापि
मदीया गौरेतद्गवयसदृशी
एनन्निष्ठसादृश्यप्रतियोगित्वात्
यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः
यथा मैत्रनिष्ठसादृश्यप्रतियोगी चत्रो मैत्रसदृशः -
इत्यनुमानात्तत्सम्भवैति वाच्यम्। एवंविधानुमानानवतारेऽपि
᳚ अनेन सदृशी मदीया गौः ᳚ इति प्रतीतेरनुभवसिद्धत्वात्
᳚ उपमिनोमि ᳚ इत्यनुव्यवसायाच्च । तस्मादुपमानं मानान्तरम्।
इति वेदान्तपरिभाषायामुपमानपरिच्छेदः ।
४ आगमः ।
paribhasha.pdf 17
वेदान्त परिभाषा
18 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 19
वेदान्त परिभाषा
20 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 21
वेदान्त परिभाषा
22 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 23
वेदान्त परिभाषा
५ अर्थापत्तिः ।
इदानीमर्थापत्तिर्निरूप्यते । तत्रोपपाद्यज्ञानेनोपपादककल्पन -
मर्थर्थाप्त्तिः । तत्रोपपाद्यज्ञानं करणम् उपपादकज्ञानं
फलम्। येन विना यदनुपपन्नं तत्तत्रोपपाद्यम्। यस्याभावे
यस्यानुपपत्तिः तत्तत्रोपपादकम्। यथा रात्रिभोजनेन
विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नम् इति तादृशं
पीनत्वमुपपाद्यम् यथा वा रात्रिभोजनस्याभावे तादृश -
पीनत्वस्यानुपपत्तिः इति रात्रिभोजनमुपपादकम्।
सा चार्थापत्तिर्द्विविधा - दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति ।
᳚ इदं रजतम्᳚ इति पुरोवर्तिनि
तत्र दृष्टार्थापत्तिर्यथा
प्रतिपन्नस्य रजतस्य ᳚ नेदं रजतम्᳚ इति तत्रैव
निषिध्यमानत्वं सत्यत्वऽनुपपन्नम् इति रजतस्य सद्भिन्नत्वं
सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति ।
श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन
अर्थान्तरकल्पनम्। यथा ᳚ तरति शोकमात्मवित्᳚ इत्यत्र
श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथा -
नुपपत्या बन्धस्य मिथ्यात्वं कल्पते । यथा वा ᳚ जीवी
देवदत्तो ᳚ गृहे न ᳚ इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं
बहिःसत्त्वं कल्पयति ।
श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिः अभिहितानुपपत्तिश्च ।
तत्र यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्या अन्वयाभिधानोपयोगि
पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा ’ द्वारम्’ इत्यत्र
’ पिधेहि ’ इति पदाध्याहारः यथा वा ᳚ विश्वजिता विजेत ᳚
इत्यत्र ’ स्वर्गकाम ’ - पदाध्याहारः ।
ननु ’ द्वारम्’ इत्यादावन्वयाभिधानात्पूर्वम्इदमन्वयाभिधानं
पिधानापस्थापकपदं विनाऽनुपापन्नमिति कथं ज्ञानमिति चेत् न
24 sanskritdocuments.org
वेदान्त परिभाषा
६ अनुपलब्धि ।
इदानीं षष्ठं प्रमाणं निरूप्यते । ज्ञानकरणाजन्याभावानुभवा -
साधारणकारणमनुपलब्धिरूपं प्रमाणम्। अनुमानादिजन्या -
तीन्द्रियाभावानुभवहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तं
पदम्। अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासधारणेति ।
अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति
विशेषणम्। न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो
गृह्यताम् विशेषाभावादिति वाच्यम्। धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि
तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावाग्राहकत्वात्।
ननु केयं योग्यानुपलब्धिः । किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः ।
उत योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः । नाद्यः स्तम्भे
paribhasha.pdf 25
वेदान्त परिभाषा
26 sanskritdocuments.org
वेदान्त परिभाषा
मानान्तरजन्येति भवत्यनुपलब्धेर्मानान्तरत्वम्।
ननु अनुपलब्धिरूपमानान्तरपक्षेऽभावप्रतीतेः प्रत्यक्षत्वे
घटवति घटाभावभ्रमस्यापि प्रत्यक्षत्वापत्तौ तत्राप्यनिर्वचनीय -
घटाभावोऽभ्युपगम्येत । न चेष्टापत्तिः तस्य मायोपादानक -
त्वेऽभावत्वानुपपत्तेः मायोपादानकत्वाभावे मायायाः
सफलकार्योपादानत्वानुपपत्तिरिति चेत् न । घटवति
घटाभावभ्रमोन तत्कालोत्पन्नघटाभावविषयकः किन्तु
भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यते
इत्यन्यथाख्यातिरेव आरोप्यसन्निकर्षस्थले सर्वत्रान्यथाख्यातेरेव
व्यवस्थापनात्।
अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तदभावस्यानिर्वचनीयत्वम्
तथापि तदुपादानं मायैव । नह्युपादानोपादेययोरत्यन्तसाजात्यम्
तन्तुपटयोरपि तन्तुत्वपटत्वादिना वैजात्यात् यत्किञ्चित्साजात्यस्य
मायया अनिर्वचनीयघटाभावस्य च मिथ्यात्वधर्मस्य विद्यमानत्वात्।
अन्यथा व्यावहारिकं घटाभावं प्रति कथं मायोपादानमिति कुतो
नाशङ्कथाः । न च विजातीययोरप्युपादानोपादेयभावे ब्रह्मैव
जगदुपादानं स्यादिति वाच्यम् प्रपञ्चविभ्रमाधिष्ठानत्वरूपस्य
तस्येष्टत्वात् परिणामित्वरूपस्योपादानत्वस्य निरवयवे
ब्रह्मण्यनुपपत्तेः । तथा च प्रपञ्चस्य परिणाम्युपादानं माया
न ब्रह्म इति सिद्धान्त इत्यलमतिप्रसङ्गेन ।
स चाभावश्चतुर्विधः - प्रागभावः प्रध्वंसाभावोऽत्यन्त
अभावोऽन्योन्याभावश्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य
घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति
प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स
प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव ।
न च घटोन्मज्जनापत्तिः घटध्वंसध्वंसस्यापि घटप्रतियोगिक -
ध्वंसत्वात्। अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे
प्रागभावोन्मज्जनापत्तिः । न चैवमपि यत्र ध्वंसाधिकरणं नित्यं
तत्र कथं ध्वंसनाश इति वाच्यम्। तादृशमधिकरणं यदि
चैतन्यव्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् ब्रह्मव्यतिरिक्तस्य
सर्वस्य ब्रह्मज्ञाननिवर्त्यताया वक्ष्यमाणत्वात्। यदि च
ध्वंसाधिकरणं चैतन्यं तदाऽसिद्धिः आरोपितप्रतियोगिक -
paribhasha.pdf 27
वेदान्त परिभाषा
ध्वंसस्याधिष्ठाने प्रतीयमानस्याधिष्ठानमात्रत्वात्।
तदुक्तम्- ᳚ अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः ᳚ इति
एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव ।
यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा
वायौरूपात्यन्ताभावः । सोऽपि वियदादिवत्ध्वंसप्रतियोग्येव ।
᳚ इदमिदं न ᳚ इति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो
भेदः पृथक्त्वं चेति व्यवह्रियते भेदातिरिक्तपृथक्त्वादौ प्रमाणाभावात्।
अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः यथ घटे पटभेदः
अधिकरणस्यानादित्वेऽनादिरेव यथा जीवे ब्रह्मभेदः ब्रह्मणि वा
जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव अविद्यानिवृत्तौ
तत्परतन्त्राणां निवृत्त्यवश्यम्भावात्।
पुनरपि भेदो द्विविधः - सोपाधिको निरुपाधिकश्चेति । तत्रोपाधि -
सत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वम्। तच्छून्यत्वं निरुपाधिकत्वम्।
तत्राद्यो तथा एकस्यैवाकाशस्य घटाद्युपाधिभेदेन भेदः । यथा वा
एकस्य सूर्यस्य जलभाजनभेदेन भेदः । तथा च ब्रह्मणोऽन्तःकरण -
भेदाद्भेदः । निरुपाधिकभेदो यथा घटे पटभेदः ।
न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः तात्त्विक -
भेदानभ्युपगमेन वियदादिवदद्वैताव्याघातकत्वात्। प्रपञ्चस्याद्वैते
ब्रह्मणि कल्पितत्वाङ्गीकारात्।तदुक्तं सुरेश्वराचार्यैः -
᳚ अक्षमा भवतः केयं साधकत्वप्रकल्पने ।
किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम्॥ ᳚
इति । अत एव विवरणेऽविद्यानुमाने प्रागभावव्यतिरिक्तत्वविशेषणम्
तत्त्वप्रदीपिकायामविद्यालक्षणे भावत्व-विशेषणं च सङ्गच्छते ।
एवं चतुर्विधानामभावानां योग्यानुपलब्ध्या प्रतीतिः ।
तत्रानुपलब्धिर्मानान्तरम्।
एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च ।
तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति
तत्प्रकारकज्ञानत्वं प्रामाण्यम्। तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं
न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात्। नापि
प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः रूपादिप्रत्यक्षे
आत्मप्रत्यक्षे च तदभावात् सत्यपि तस्मिन्᳚ पीतः शङ्खः ᳚
इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्षादिक -
28 sanskritdocuments.org
वेदान्त परिभाषा
७ प्रामाण्यम्।
एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम्-
व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति । तत्र
ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं
प्रामाण्यम् तद्विषयाणां व्यवहारदशायां बाधाभावात्।
द्वितीयन्तु जीवब्रह्मैक्यपराणां ᳚ सदेव सोम्येदमग्र आसीत्᳚
इत्यादिनां ᳚ तत्त्वमसि ᳚ इत्यन्तानाम् तद्विषयस्य जीवपरैक्यस्य
कालत्रयांबाध्यत्वात्। तच्चैक्यं ’ तत्त्वं ’ - पदार्थज्ञानाधीन-
ज्ञानमिति प्रथमं ’ तत्’ - पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते ।
तत्र लक्षणं द्विविधम्- स्वरूपलक्षणं तटस्थलक्षणं चेति ।
paribhasha.pdf 29
वेदान्त परिभाषा
30 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 31
वेदान्त परिभाषा
32 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 33
वेदान्त परिभाषा
34 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 35
वेदान्त परिभाषा
प्रतिबिम्बपक्षपातित्वात् इत्यस्वरसात्बिम्बात्मकमीश्वरचैतन्यमित्यपरे ।
तेषामयमाशयः - एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यम्
प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम्। बिम्बप्रतिबिम्बकल्पनोपाधिश्चैक -
जीववादे अविद्या अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तः -
करणरूपोपाधिप्रयुक्तो जीवपरभेदः । उपाधिकृतदोषाश्च प्रतिबिम्बे
जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे उपाधेः प्रतिबिम्बपक्षपातित्वात्।
एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव
जीवपरयोर्भेदः ।
ननु ग्रीवस्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य
जीवप्रदेशेऽभावात्तस्य सर्वान्तर्यामित्वं
न स्यादिति चेत्, न । साभ्रनक्षत्र-
स्याकाशस्य जलादौ प्रतिबिम्बितत्वे बिम्बभूतमहाकाशस्यापि जलादिप्रदेश-
सम्बन्धदर्शनेन परिच्छिन्नाबिम्बस्य प्रतिबिम्बदेशासम्बन्धित्वेऽप्य-
परिच्छिन्नब्रह्मबिम्बस्य प्रतिबिम्बदेशसम्बन्धाविरोधात्।
न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः, रूपवत एव
तथात्वदर्शनात्, इति वाच्यम् ; नीरूपस्यापि रूपस्य प्रतिबिम्ब-
दर्शनात्। न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः,
आत्मनो द्रव्यत्वाभावस्य उक्तत्वात्।
᳚ एकधा बहुधा चैव दृश्यते जलचन्द्रवत्।᳚
᳚यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्।᳚
इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य बाधितत्वाच्च ।
तदेवं ᳚तत्᳚ - पदार्थो निरूपितः ।
इदानीं ᳚त्वम्᳚-पदार्थो निरूप्यते । एकजीववादेऽविद्याप्रतिबिम्बो
जीवः , अनेकजीववादे तु अन्तःकरणप्रतिबिम्बः । स च जाग्रत्स्वप्न-
सुषुप्तिरूपावस्थात्रयवान्। तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था,
अवस्थान्तरे इन्द्रियाभावात्नातिव्याप्तिः । इन्द्रियजन्यज्ञानं च
अन्तःकरणवृत्तिः , स्वरूपज्ञानस्यानादित्वात्।
सा चान्तःकरणवृत्तिरावरणाभिभवार्था इत्येकं मतम्।
तथा हि- अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठान-
चैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ
घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थ-
पदवाच्यमभ्युपगन्तव्यम्। एवं सति न सर्वदा घटादेर्भानप्रसङ्गः,
36 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 37
वेदान्त परिभाषा
38 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 39
वेदान्त परिभाषा
८ प्रयोजनम्।
इदानीं प्रयोजनं निरूप्यते । यदवगतं सत्स्ववृत्तितया इष्यते
तत्प्रयोजनम्। तच्च द्विविधम्- मुख्यं गौणं चेति । तत्र
सुखदुःखाभावौ मुख्ये प्रयोजने , तदन्यतरसाधनं गौणं प्रयोजनम्।
सुखं च द्विविधम्- सातिशयं निततिशयं च । तत्र सातिशयं सुखं
विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः ,
᳚ एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ᳚ इत्यादि श्रुतेः ।
निरतिशयं सुखं च ब्रह्मैव , ᳚ आनन्दो ब्रह्मेति व्यजानात्, ᳚
᳚ विज्ञानमानन्दं ब्रह्म ᳚ इत्यादि श्रुतेः ।
आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः , शोकनिवृत्तिश्च ,
᳚ ब्रह्म वेद ब्रह्मैव भवति , ᳚ ᳚ तरति शोकमात्मवित्᳚
इत्यादि श्रुतेः । न तु लोकान्तरावाप्तिः , तज्जन्यवैषयिकानन्दो
वा मोक्षः , तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः ।
ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो
दोषः , अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति
चेत्, न , सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण
तत्साधने प्रवृत्त्युपपत्तेः । अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्म -
स्वरूपतया सिद्धैव । लोकेऽपि प्राप्तप्राप्ति - परिहृतपरिहारयोः
प्रयोजनत्वं दृष्टमेव । यथा हस्तगत्विस्मृतसुवर्णादौ ᳚ तव
हस्ते सुवर्णम्᳚ इत्याप्तोपदेशादप्राप्तमिव प्राप्नोति । यथा वा
वलयितचरणायां स्रजि सर्पत्वभ्रमवतः ᳚ नायं सर्पः ᳚
इत्याप्तवाक्यात्परिहृतस्यैव सर्पस्य परिहारः । एवं
प्राप्तस्याप्यानन्दस्य प्राप्तिः , परिहृतस्याप्यनर्थस्य
निवृत्तिर्मोक्षः प्रयोजनं च ।
स च ज्ञानैकसाध्यः , ᳚ तमेव विदित्वाऽतिमृत्युमेति , नान्यः
पन्था विद्यतेऽयनाय ᳚ इति श्रुतेः , अज्ञान्ननिवृत्तेः ज्ञानैकसाध्यत्व -
नियमाच्च । तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम्, ᳚ अभयं
40 sanskritdocuments.org
वेदान्त परिभाषा
paribhasha.pdf 41
वेदान्त परिभाषा
42 sanskritdocuments.org
वेदान्त परिभाषा
श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्च्यानुकूलमननायोगात्।
एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या
ऊचिरे ।
अपरे तु श्रवणं प्रधानम्, मनननिदिध्यासनयोस्तु
श्रवणात्
पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया
आरादुपकारक -
तयाऽङ्गत्वमित्याहुः । तदप्यङ्गत्वं न
तार्तीयशेषत्वरूपम्,
तस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते
श्रुत्याद्यभावेऽसम्भवात्।
तथा हि ᳚ ब्रीहिभिर्यजेत , ᳚ ᳚ दध्ना जुहोति ᳚
इत्यादाविव
मनननिदिध्यासनयोरङ्गत्वे न काचित्तृतीया श्रुतिरस्ति ।
नापि ᳚ बर्हिर्देवसदनं दामि ᳚ इत्यादि मन्त्राणां
बर्हिःखण्डन -
प्रकाशनसामर्थ्यवत्किञ्च्ल्लिङ्गमस्ति । नापि
प्रदेशान्तरपठितस्य
प्रव्र्गस्य ᳚ अग्निष्टोमे प्रवृणक्ति ᳚ इति वाक्यवत्
श्रवणानुवादेन
मनननिदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति । नापि
᳚ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ᳚ इति
वाक्यावगतफल -
साधनताकदर्शपूर्णमासप्रकरणे प्रयाजादीनामिव
फलसाधनत्वे -
नावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नानम्
।
ननु ’ द्रष्टव्यः ’ इति दर्शनानुवादेन श्रवणे विहिते सति
फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः
प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत्, न , ᳚ ते ध्यानयोगानुगता
अपश्यन्᳚ इतादि श्रुत्यन्ते ध्यानस्य दर्शनसाधनत्वेनावगतस्य
अङ्गाकाङ्क्ष्यायां प्रयाजन्ययेन श्रवणमननयोरेवाङ्गत्वापत्तेः ।
paribhasha.pdf 43
वेदान्त परिभाषा
क्रमसमाख्ये च दूरनिरस्ते ।
किञ्च प्रयाजादिष्वङ्गत्वविचारः सप्रयोजनः । पूर्वपक्षे
विकृतिषु न प्रयाजाद्यनुष्ठानम्; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति ।
प्रकृते तु श्रवणं न कस्यचित्प्रकृतिः , येन मनननिदिध्यासनयो -
स्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत्। तस्मान्न तार्तीयशेषत्वं
मनननिदिध्यासनयोः , किन्तु तथा घटादिकार्ये मृत्पिण्डादीनां
सहकारिकारणतेति प्राधान्याप्राधान्यव्यपदेशः , तथा श्रवण -
मनननिदिध्यासनानामपीति मन्तव्यम्।
सूचितं चैतद्विवरणाचार्यैः - ᳚ शक्तितात्पर्यविशिष्तशब्दावधारणं
प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति , प्रमाणस्य प्रमेयावगमं
प्रत्यव्यवधानात्। मनननिदिध्यासने तु चित्तस्यप्रत्यगात्मप्रवणता -
संस्कारपरिनिष्पन्न - तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां
प्रतिपद्येते इति फलं प्रत्यव्यवहितकारणस्य शक्तितात्पर्यविशिष्ट -
शब्दावधारणस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियते ।
श्रवणादिषु च मुमुक्षूणामधिकारः , काम्ये कर्मणि फलकामस्याधिकारित्वात्।
मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य
शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः । अन्तरिन्द्रियनिग्रहः
शमः । बहिरिन्द्रियनिग्रहो दमः । विक्षेपाभाव उपरतिः । शीतोष्णादि -
द्वन्द्वशनं तितिक्षा । चित्तैकाग्रं समाधानम्। गुरुवेदान्तवाक्येषु विश्वासः
श्रद्धा ।
अत्र ’ उपरम ’ - शब्देन संन्यासोऽभिधीयते ;
तथा च संन्यासिनामेव
श्रवणादावधिकारः , इति केचित्। अपरे तु ’ उपरम ’ - शब्दस्य
संन्यासवाचकत्वाभावात्, विक्षेपाभावमात्रस्य गृहस्थेष्वपि
सम्भवात्, जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात्,
सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः ।
सगुणोपासनमपि चित्तैकाग्र्यद्वारानिर्विशेषब्रह्मसाक्षात्कारहेतुः ।
तदुक्तम्-
᳚ निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरः ।
ये मन्दास्तेऽनुकम्प्यन्तेसविशेषनिरूपणैः ॥
वशीकृते मनस्येषां सगुणब्रह्मशीलनात्।
44 sanskritdocuments.org
वेदान्त परिभाषा
तदेवाविर्भवेत्साक्षादपेतोपाधिकल्पनम्॥ ᳚ इति ।
सगुणोपासकानां च अर्चिरादिमार्गेण ब्रह्मलोकगतानां तत्रैव
श्रवणाद्युत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः ।
कर्मिणान्तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये
सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्य्हावरान्तेषु
पुनरुत्पत्तिः । तथा च श्रुतिः - ᳚ रमणीयचरणा रमणीयां
योनिमापद्यन्ते , कपूयचरणाः कपूयां योनिमापद्यन्ते ᳚ इति ।
प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोचित -
तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु
चोत्पत्तिः , इत्यलं प्रसङ्गागतप्रपञ्चेन ।
निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम्, ᳚ न
तस्य प्राणा उत्क्रामन्ति ᳚ इति श्रुतेः , किन्तु यावत्प्रारब्धकर्मक्षयं
सुखदुःखे अनुभूय पश्चादपवृज्यते ।
ननु ᳚ क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ᳚
इत्यादि श्रुत्या , ᳚ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते
तथा ᳚ इत्यादि स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये
सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत्, न । ᳚ तस्य
तावदेव चिरं यावन्न विमोक्ष्ये , अथ सम्पत्स्ये ᳚ इत्यादि श्रुत्या ,
᳚ नाभुक्तं क्षीयते कर्म ᳚ इत्यादि स्मृत्या चोत्पादितकार्यकर्म -
व्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाश्यत्वावगमात्।
सञ्चितं द्विविधम्- सुकृतं दुष्कृतं च । तथा च श्रुतिः -
᳚ तस्य पुत्रा दायमुपयन्ति , सुहृदः साधुकृत्याम्, द्विषन्तः
पापकृत्याम्᳚ इति ।
ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि
निवृत्तेः कथं ज्ञानिनां देहधारणमुपपद्यते इति चेत्, न ,
अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूप-
प्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात्।
नन्वेवमपि तत्त्वज्ञानादादेकस्य मुक्तौ सर्वमुक्तिः स्यात्,
अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति
चेत्, न , इष्टापत्तेरित्येके । अपरे तु एतद्दोषपरिहारायैव
᳚ इन्द्रो मायाभिः ᳚ इति बहुवचनश्रुत्यनुगृहीतमविद्यायानानात्व -
paribhasha.pdf 45
वेदान्त परिभाषा
Vedanta Paribhasha
pdf was typeset on March 24, 2024
46 sanskritdocuments.org