सामग्री पर जाएँ

भारतस्य केन्द्रशासितप्रदेशाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतस्य केन्द्रशासितप्रदेशाः ( /ˈbhɑːrətəsjə kɛndrəʃɑːsɪtəprədɛʃɑːhɑː/) (हिन्दी: भारत के केन्द्रशासित प्रदेश, आङ्ग्ल: Union territory of India) स्वतन्त्राः भवन्ति । भारते सप्त केन्द्रशासितप्रदेशाः सन्ति । केन्द्रसर्वकारः एव केन्द्रशासितप्रदेशानां तन्त्रं प्रचालयति । एतेषु प्रदेशेषु निर्वाचनम् अपि स्वतन्त्रतया एव भवति ।

वर्तमान केन्द्रशासितप्रदेशाः

[सम्पादयतु]
हिन्दूमहासागरःबङ्गालोपसागरःअण्डमान् सागरःसिन्धुसागरः(अरब्बी)लक्षद्वीपसागरःसियाचिन् हिमसंहतिःअण्डमाननिकोबारद्वीपसमूहःचण्डीगढदादरा नगरहवेली चदमन् दीव् चदेहलीलक्षद्वीपाःपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीअरुणाचलप्रदेशराज्यम्असमराज्यम्बिहारराज्यम्छत्तीसगढराज्यम्गोवाराज्यम्गुजरातराज्यम्हरियाणाराज्यम्हिमाचलप्रदेशराज्यम्जम्मूकाश्मीरराज्यम्झारखण्डराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्मणिपुरराज्यम्मेघालयराज्यम्मिजोरमराज्यम्नागाल्याण्डराज्यम्ओडिशाराज्यम्पञ्जाबराज्यम्राजस्थानराज्यम्सिक्किमराज्यम्तमिळनाडुराज्यम्त्रिपुराराज्यम्उत्तरप्रदेशराज्यम्उत्तराखण्डराज्यम्पश्चिमबङ्गालराज्यम्अफगानस्थानबाङ्गलादेशःभूटानदेशःबर्मादेशःचीनादेशःनेपालदेशःपाकिस्थानम्श्रीलङ्काताजिकिस्थानदादरा नगरहवेली चदमन् दीव् चपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीआन्ध्रप्रदेशराज्यम्तेलङ्गाणाराज्यम्गोवाराज्यम्गुजरातराज्यम्जम्मूकाश्मीरराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्राजस्थानराज्यम्तमिळनाडुराज्यम्पाकिस्थानम्श्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्का
भारतस्य २८ राज्यानां तथा ७ केन्द्रशासितप्रदेशानां च नोदनयोग्यं (clickable) चित्रम्

अण्डमाननिकोबारद्वीपसमूहः

[सम्पादयतु]

अण्डमान् निकोबार् च द्वीपौ भारतस्‍य केन्द्रशासितप्रदेशौ स्तः। अण्डमाननिकोबारद्वीपानां समूहे सहस्रशः लघुलघुद्वीपाः सन्ति । गङ्गासागरे (बङ्गालोपसागरे) एतानिमुक्ताहारः इव प्रकाशन्ते । अत्र ५७० तः अधिकाः द्वीपाः स्पष्टतया दृढीकृताः सन्ति । एतेषां विस्तीर्णता ८२४८ चतुरस्र कि.मीमिता। अतीव बृहत् द्वीपः नाम अण्डमानद्वीपः । अस्य राजधानी पोर्ट ब्लेयर । अस्य दैर्घ्यं ४६७ कि.मी । विस्तारः ५२ कि.मी । पर्वतप्रदेशे अनेकानि सुन्दराणि शिखरापि सन्ति । अत्र जनाः मलेशिया म्यान्मार्म्यान्मारवंशीयाः सन्ति । सा.श.१७-१८ शतके युरोप्रदेशीयाः अत्रागत्य स्थितवन्तः । भारतस्य लुण्ठकान् चोरान् अत्र कारागृहे स्थापयितुं विशालं कारागृहं निर्मितम् । तेषां कालापानी इति दण्डनं कुर्वन्ति स्म । आङ्गलाः स्वविरोधिनः अत्रैव प्रेषयन्ति स्म । इष्टिकाभिः निर्मिते लाघुकोष्ठे स्थापयन्ति स्म ।

चण्डीगढ

[सम्पादयतु]
मुख्यलेखः : चण्डीगढ

चण्डीगढ़ केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति । एतद् नगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति। चण्डीगडनगरं (Unique City) सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् । प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे १९५३ तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति ।

दीव दमण च

[सम्पादयतु]
मुख्यलेखः : दीव दमण च

दीव दमण च भारतस्य केन्द्रशासितः प्रदेशः अस्ति। एषः अरबसागरे स्थितः कश्चन द्वीपः। गुजरातसमीपे भवति।

दादरा नगरहवेली च

[सम्पादयतु]
मुख्यलेखः : दादरा नगरहवेली च

दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति। क्रिस्ताब्दस्य १९५४ पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः ४९१ चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति । हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति । वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति । धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।

मुख्यलेखः : देहली

दिल्ली अथवा देहली (Delhi) भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी प्राचीनकाले हस्तिनापुरम् इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधानीपदमलङ्करोति । भारतदेशस्य महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली भारतस्य राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । हिन्दु-मुसलमान्-मोघल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य १९४७ पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेक वास्तुशिल्पानि क्रिस्ताब्दे १९३० समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।

पुदुच्चेरी

[सम्पादयतु]
मुख्यलेखः : पुदुच्चेरी

पाण्डीचेरी (तमिलुभाषायां புதுச்சேரி अथवा பாண்டிச்சேரி) भारतस्य कश्चन केन्द्रशासित: प्रदेशः अस्ति । २००६ तमस्य वर्षस्य सप्टम्बर०००मासे अस्य नाम पुदुचेरी इति परिवर्तितम् । तमिळुभाषायां पुदुचेरी इत्यस्य अर्थः नूतनः ग्रामः इति । पाण्डिचेरी सागरतीरे स्थितं किञ्चन सुन्दरनगरम् अस्ति । पर्वतप्रदेशाः अत्र न सन्ति । विस्तारः २९० चतुरस्र कि.मी.मितः । इतिहासानुसारं द्वितीये शतके रोमदेशीयाः अत्र वाणिज्यव्यवहारेषु मग्नाः आसन् । अनन्तरं युरोपियन् जनाः आगताः क्रिस्ताब्दे १६७३ तमे वर्षे फ्रान्सदेशीयाः अत्रत्यम् अधिकारं प्राप्तवन्तः । नगरनिर्माणम् उत्तमरीत्या कृतमस्ति । उत्तरदक्षिणतः पूर्वपरिचयतां च सरल मार्गाः सन्ति । फ्रान्सदेशीयाः श्वेतनगरं कृष्णनगरमिति भागद्वयं कृतवन्तः ।यत्र फ्रेञ्चजनाः आसन् सः भागः श्वेतनगरम् इति प्रसिद्धः आसीत् । मार्गाणां नामानि अपि रोमन् शैल्या रोमेन्-रोलामार्गः , रूसप्रान् , रोविक्टर् , सीमो- नेल् इत्यादीनि सन्ति । अत्रत्याः आरक्षकाः फ्रान्सदेशीयसैनिकाः इव समवस्त्रं धरन्ति। गृहाणां नामनि अपि फ्रेञ्चशैल्या सन्ति । प्रमुखवाणिज्यकेन्द्रणि गान्धिमार्गः , नेहरूमार्गः इत्यादयः। नगरे फ्रान्सस्मारकाः सन्ति । जोन् आफ् आर्क् प्रतिमा अस्ति । डूप्लेविग्रहः अस्ति । विल्लेनोय्रे प्रदेशे (कृष्णनगरम्) तिरुवळ्ळुवर ,अण्णादोरै , एम्.जी. आर् , कामराजप्रतिमाः सन्ति । अत्र ५५विविधभाषाजनाः निवसन्ति । आङ्ग्लभाषा , फ्रेञ्चभाषा , तमिळ् ,मलयाळं , तेलुगु राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि त्रिशतवर्षं प्राचीनानि सन्ति । पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति । पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, कारैकल्, यानम्, माहे च । पाण्डीचेरी कारैकल् च तमिळनाडुराज्यस्य भूभागौ विद्येते । यानम् आन्ध्रप्रदेशे माहे केरलभूभागे च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितं, कारैकल् १६० च कि मी मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । पाण्डीचेरीमण्डले १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।

लक्षद्वीपाः

[सम्पादयतु]
मुख्यलेखः : लक्षद्वीपाः

लक्षद्वीप: भारतस्‍य कश्चित् केन्द्रशासितः प्रदेशः अस्‍ति। एतत् भारतीयप्रशासनाधीनद्वीपानां समूहस्थानम् । अत्र ३६ द्वीपाः सन्ति । एतेषां द्वीपानां पाङ्क्तिः एव जले अतीव सुन्दरतया प्रकाशते । लक्षद्वीपस्य ल्याक्डीव् इति अपि नाम अस्ति । अस्य विस्तारः ५० चतुरस्रकि.मीमितः । शतशः द्वीपाः अत्र सन्ति । तेषु ५० द्वीपेषु केवलं जनाः निवसन्ति । एते द्वीपाः अग्निपर्वतैः निर्मिताः इति कथयन्ति । उत्तरभागे स्थितानां द्वीपानाम् अमिण्डिवि इति नाम अस्ति । मिनिकायद्वीपः एतेषु द्वीपेषु बृहत् अस्ति । एषः तिरुवनन्तपुरम् दिशि अस्ति । भारतीयाः अत्र मुक्ततया गत्वा आगच्छन्ति । अत्र बहुजनाः महम्मदीयाः सन्ति । विदेशीयानां अत्र गमनाय अनुमति पत्रम् आवश्यकम् अस्ति । अत्र विशेषाकर्षणम् सागरजले निमज्यखेलनं लक्ष्यद्वीपस्य राजधानी कवरट्टी अस्ति । अत्र नारिकेलवृक्षाणां वाटिकाः सन्ति । बङ्गारम् द्वीपे प्रवासिनाम् उपाहारगृहाणि सन्ति । अत्र स्कुबा डैविङ्ग् (जलस्य अन्तः प्रविश्य तरणम्), स्नोरकेलिङ्ग(नलिकायाः साहाय्येन जले तरणम्)च विशेषाः सन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
चित्रे सङ्ख्या नाम ऐ एस् ओ ३१६६-२ कोड्[] अञ्चलम् संरचनादिवसः जनसङ्ख्या (२०११) आयतनम्
(कि मी)
आधिकारिक-
भाषा(ः)
अतिरिक्त आधिकारिक-
भाषा(ः)
प्रशासनिक-
राजधानी
वृहत्तमनगरं जनघनत्त्वम् (२०११) साक्षरता (%) (२०११) % नगरवासिनः (२०११)
अण्डमाननिकोबारद्वीपसमूहः AN दक्षिणे १ नवेम्बर् १९५६ ३८०,५८१ ८,२४९ हिन्दी आङ्ग्लभाषा पोर्ट् ब्लेयर् ४६ ८६.२७ ३७.७
चण्डीगढ CH उत्तरे १ नवेम्बर् १९६६ १,०५५,४५० ११४ आङ्ग्लभाषा चण्डीगढ ९,२५२ ८६.४३ ९७.३
जम्मूकाश्मीरम् JK उत्तरे ३१ अक्टोबर् २०१९ १२,२५८,४३३ ४२,२४१ आङ्ग्ल, उर्दू, कश्मीरी, डोगरी, हिन्दी श्रीनगरम् (ग्रीष्मकाले)
जम्मू (शीतकाले)
श्रीनगरम्) २९७ ६८.७४ (राज्यं) २६.१
दादरा नगरहवेली च दीव दमण च DH पश्चिमे २६ जनवरी २०२० ५८६,९५६ ६०३ आङ्ग्लभाषा, गुजराती मराठी, हिन्दी दमण ९७० ७७.६५ (द.न.ह.), ८७.०७ (द.द.) ५८.४
पुदुच्चेरी PY दक्षिणे १६ अगस्त् १९६२ १,२४७,९५३ ४९२ आङ्ग्लभाषा, तमिऴ्, फ्रेञ्चभाषा तेलुगु, मलयाळम् पुदुच्चेरी २,५९८ ८६.५५ ६८.३
दिल्ली DL उत्तरे १ नवेम्बर् १९५६ १६,७८७,९४१ १,४९० आङ्ग्लभाषा, हिन्दी उर्दू, पञ्जाबी नव दिल्ली दिल्ली ११,२९७ ८६.३४ ९७.५
लद्दाख् LA उत्तरे ३१ अक्टोबर् २०१९ २९०,४९२ ५९,१४६ आङ्ग्लभाषा, हिन्दी लेह् (ग्रीष्मकाले)
कार्गिल् (शीतकाले)
लेह् २.८ - ८४
लक्षद्वीपाः LD दक्षिणे १ नवेम्बर् १९५६ ६४,४७३ ३२ आङ्ग्लभाषा, मलयाळम् कवरत्ती २,०१३ ९२.२८ ७८.१
  1. "Code List: 3229". UN/EDIFACT. GEFEG. Archived from the original on 25 December 2018. आह्रियत 25 December 2012.